पूर्वम्: ६।२।९३
अनन्तरम्: ६।२।९५
 
सूत्रम्
संज्ञायां गिरिनिकाययोः॥ ६।२।९४
काशिका-वृत्तिः
संज्ञायां गिरिनिकाययोः ६।२।९४

संज्ञायां विषये गिरि निकाय इत्येतयोः उत्तरपदयोः पूर्वपदम् अन्तोदात्तं भवति। अञ्जनागिरिः। भञ्जनागिरिः। निकाये शापिण्दिनिकायः। मौण्डिनिकायः। चिखिल्लिनिकायः। संज्ञायाम् इति किम्? परमगिरिः। ब्राह्मणनिकायः।
न्यासः
संज्ञायां गिरिनिकाययोः। , ६।२।९४

"अञ्जनागिरिः" इत्येवमादयः षष्ठीसमासाः। अञ्जनभञ्जनशब्दयोः "वनगिर्योः संज्ञायाम्()" ६।३।११६ इति दीर्घत्वम्()। "शापिण्डिमौण्डिशब्दौ" इञन्तौ। "चिखिल्लिशब्दः" मत्वर्थीयेनिप्रत्ययान्तः॥