पूर्वम्: ६।२।८
अनन्तरम्: ६।२।१०
 
सूत्रम्
शारदेअनार्तवे॥ ६।२।९
काशिका-वृत्तिः
शारदे ऽनार्तवे ६।२।९

ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्दे उत्तरपदे उत्तरपदे तत्पुरुषे समासे पूर्वपदम् प्रकृतिस्वरं भवति। रज्जुशारदमुदकम्। दृषत्शारदाः सक्तवः। शारदशब्दो ऽयं प्रत्यग्रवाची, तस्य नित्यसमासो ऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशाराम् उच्यते। रज्जुशदः सृजेरसुम् च इति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः। दृषत्शब्दः दृणातेः षुक् ह्रस्वश्च इति अदिप्रत्ययान्तो ऽन्तोदात्तः। अनार्तवे इति किम्? पर्मशारदम्। उत्तरमशारदम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्।
न्यासः
शारदेऽनार्तवे। , ६।२।९

"रज्जुशारदम्(), "दृषच्छारदम्()" [दृषच्छारदाः--काशिका] इति। योगविभागात्? समासः। "शारदशब्दोऽय प्रत्यग्रवाची" इति। प्रत्यग्रम्()भिनवम्(), अचिरकालभावीत्यर्थः। एतेन नानार्थवाचित्वं शारदशब्दस्य दर्शयति। "नित्यसमासः" इति। महाविभाषायाः प्रकृताया व्यवस्थितविभाषात्वात्()। "अनुपहतम्()" इति। रजोभिः। अनुपहतत्वं तु सद्यौद्()धृतत्वात्()। "उप्रत्ययान्तः" इति। "सृजेरसुं च" (द।उ।१।१००) इत्यत्र "भृमृशीतृ()चरित्सरितनिधनिमिमस्जिभ्य उः" (द।उ।१।९२) [भृमृशीतृ()चरित्सरितनिमिमस्जिब्यः उः--द।उ।] इत्यत उकारप्रत्ययानुवृत्तेः। "अदिप्रत्ययान्तः" [अदिक्प्रत्ययान्तः--मुद्रितकाशिका, आदिप्रत्ययान्तः--मुद्रितन्यासः] इति। "दृणातेः षुग्? ह्यस्वश्च" (द।उ।६।४५) इत्यत्र "शृ()दृ()भसोऽदिः" (द।उ।६।४२) इत्यतोऽदिप्रत्ययानुवृत्तेः। "परमशारदम्()" इति। शरदि भवं शारदम्()। "सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्()" ४।३।१६ इति सूत्रेणोत्पन्नोऽयं शब्दः॥