पूर्वम्: ६।२।७
अनन्तरम्: ६।२।९
 
सूत्रम्
निवाते वातत्राणे॥ ६।२।८
काशिका-वृत्तिः
निवाते वातत्राणे ६।२।८

निवातशब्दे उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातम् कुटीनिवातम्। शमीनिवातम्। कुड्यनिवातम्। वातस्याभावो निवातम्, अर्थाभावः इत्यव्ययीभावः। निरुद्धो वातो ऽस्मिनिति वा निवातम् इति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटीशमीशब्दौ गौरादिङोषन्तावन्तोदातौ। कुड्यशब्दो ऽपि कवतेर् यत् डक्किच्च इति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तो ऽन्तोदात्तः इत्यपरे। वातत्राने इति किम्? राजनिवाते वसति। सुखं मातृनिवातम्। निवातशब्दो ऽयं पार्श्ववाची रूढिशब्दस् तत्रोभयत्र षष्ठीसमासः।
न्यासः
निवाते वातत्राणे। , ६।२।८

"कुड()आदिहेतुके" इत्याद। कुड()आदिहेतुके वर्तन्ते; कार्ये कारणोपचारात्()। भवति कारणे कार्योपचारः, यथा--"सर्वमिदं पुरातनं कर्म भुजयते" इति। "कवतेः" इति। "कु शब्दे (धा।पा।१०४२)। "आद्युदात्तः" इति। "यतोऽनावः" ६।१।२०७ इत्यनेन। "ड()क्प्रत्ययांन्तोऽन्तोदात्त इत्यपरे" इति। ते "कवतेडर्()क्()" (द।उ।८।२०) इति सूत्रमधीयते॥