पूर्वम्: ६।२।९
अनन्तरम्: ६।२।११
 
सूत्रम्
अध्वर्युकषाययोर्जातौ॥ ६।२।१०
काशिका-वृत्तिः
अध्वर्युकषाययोर् जातौ ६।२।१०

अध्वर्यु कषाय इत्येतयोः जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्याध्वर्युः। कठाद्वर्युः। कलापाध्वर्युः। एते समानाधिकरणसमासाः जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दः यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः। ततः कठेन प्रोक्तम् इति वैशम्पायनान्तेवासिभ्यश्च ४।३।१०४ इति णिनिः, तस्य कठचरकाल् लुक् ४।३।१०७ इति लुक्। कलापिना प्रोक्तम् इति कलापिनो ऽण् ४।३।१०८, तस्मिनिनण्यनपत्ये ६।४।१६४ इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिल। अङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणाम् उपसङ्ख्यानम् इति टिलोपः। तदेवं कलापशब्दो ऽन्तोदात्तः। सर्पिर्मण्डकषायम्। उमापुष्पकषायम्। दौवारिककषायम्। षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्दः उमापुष्पशब्दश्च षष्ठीसमासाबन्दोदात्तौ। दौवारिकशब्दो ऽपि द्वारि नियुक्तः इति ठकि सत्यन्तोदात्तः एव। जातौ इति किम्? परमाध्वर्युः। परमकषायः।
न्यासः
अध्वर्युकषाययोर्जातौ। , ६।२।१०

"जातिवाचिनो नियतविषयाः" इति। नियतो विषयो येषामिति विग्रहः। नियतविषयत्वं तु जातिविशेषत्व एव वर्तमानत्वात्()। अध्वर्युप्रभृ()तीनाम्? "गोत्रञ्च चरणैः" (का।वृ।४।१।६३) इति चरणत्वाज्जातित्वम्()। "यत्प्रत्ययान्तः" इति। "द्युप्रागपागुदक्प्रतीचो यत्()" ४।२।१०० इति। "कठशब्दः पचाद्यचि व्युत्पादितः" इति। "कठ कृच्छ्रजीवने" (धा।पा।३३३) इत्यस्मात्()। "तदेवम्()" इति। यस्मादेदं कालापशब्दोऽणन्तः, तस्मात्? प्रत्ययस्वरेणान्तोदात्तः। "ठकि सत्यन्तोदात्तः" इति। "कितः" ६।१।१५९ इत्यनेन॥