शालायाम् उत्तरपदे छात्र्यादयः आद्युदात्ता भवन्ति। छात्रिशाला। ऐलिशाला। भाण्दिशाला छात्रि। ऐलि। भाण्दि। व्याडि। आपिशलि। आख्यण्डि। आपारि। गोमि। यदा शालान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति तदा अपि तत्पुरुषे शालायां नपुंसके
६।२।१२२ इत्येतस्मात् पूर्वविप्रतिषेधेन पूर्वपदम् आद्युदात्तं भवति। छात्रिशालम्। ऐलिशालम्।
"यदा शालान्तः" इत्यादि। "विभाषा सेनासुरा" (२।४।
२५) इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम्()? इह च शालाशब्दस्य स्त्रीलिङ्गस्य ग्रहणम्()। तत्र यथा समासो नपुंसकलिङ्गो न भवति तथा "तत्पुरुषे शालायां नपुंसके"
६।२।१२२ इत्यनेन परत्वादुत्तरपदाद्युदात्तत्वेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्()। अतस्तन्निरासाय "यदा शालान्तः" इत्यादेग्र्रन्थस्योपन्यासः। यो नपुंसकलिङ्गः शालान्ततत्पुरुषो न भवति सोऽस्यावकाशः--छात्त्रिशाला, ऐलिशालेति। यस्तु नपुंसकलिङ्गो न छात्त्रादिपूर्वपदस्तत्पुरुषः स "शालायां नपुंसके"
६।२।१२२ इत्यस्यावकाशः--ब्राआहृणशालम्(), क्षत्त्रियशालमिति; इहोभयं प्राप्नोति--छात्त्रिशालमिति, पूर्वविप्रतिषेधेनायमेव स्वरो भवति॥