पूर्वम्: ६।२।८४
अनन्तरम्: ६।२।८६
 
सूत्रम्
घोषादिषु॥ ६।२।८५
काशिका-वृत्तिः
घोषाऽदिषु च ६।२।८५

घ्षादिषु च उत्तरपदेषु पूर्वपदम् आद्युदात्तं भवति। दाक्षिघोषः। दाक्षिकटः। दाक्षिपल्वलः। दाक्षिह्रदः। दाक्षिबदरी। दाक्षिपिङ्गलः। दाक्षिपिशङ्गः। दाक्षिशालः। दाक्षिरक्षा। दाक्षिशिल्पी। दाक्ष्यश्वत्थः। कुन्दतृणम्। दाक्षिशाल्मली। आश्रममुनिः। शाल्मलिमुनिः। दाक्षिप्रेक्षा। दाक्षिकूटः। यान्यत्र निवासनाम् अधेयानि तेषु निवसद्वाचीनि अपि पूर्वपदानि आद्युदात्तानि भवन्ति। अनिवसन्तः इति न अनुवर्तयन्ति केचित्। अपरे पुनरनुवर्तयन्ति।
न्यासः
घोषादिषु च। , ६।२।८५

समाससवरापवादो योगः। एवमुत्तरेऽपि। "न भूताधिकसञ्जीव" ६।२।९१ इत्यादेः सूत्राद्ये योगास्त समासस्वरापवादा द्रष्टव्याः। "दाक्षीघोषः"इत्येवमादयः षष्ठीसमासाः। "यानयत्र" इत्यादि। कथं पुनरेतललभ्यते, यावताऽनिवसन्त इति प्रकृतम्()? इत्यत आह--"अनिवसन्तः" इति। "अपरे" इत्यादि। तेषां मतेन यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यप्युदात्ता भवन्ति॥