पूर्वम्: ६।२।१२०
अनन्तरम्: ६।२।१२२
 
सूत्रम्
कंसमन्थशूर्पपाय्यकाण्डं द्विगौ॥ ६।२।१२१
काशिका-वृत्तिः
किंसमन्थशूर्पपाय्यकाण्डं द्विगौ ६।२।१२२

कंस मन्थ शूर्प पाय्य काण्ड इत्येतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति। द्विकंसः। त्रिकंसः। द्विमन्थः। त्रिमन्थः। द्विशूर्पः। त्रिशूर्पः। द्विपाय्यः। त्रिपाय्यः। द्विकाण्डः। त्रिकाण्डः द्विगौ इति किम्? परमकंसः। उत्तरमकंसः।
न्यासः
कंसमन्थशूर्पपाय्यकाण्डं द्वीगौ। , ६।२।१२१

"वृ()तृ()वदिहनिकमिकषिभ्यः सः" (पं।उ।३।६२) इति कमेः सः, तेन कंसोऽन्तोदात्तः। "मन्थ विलोड्ने" (दा।पा।४२) अस्मात्? "अकत्र्तरि च कारके संज्ञायाम्()" ३।३।१९ इति घञ्(), तेन मन्थ आद्युदात्तः। "पानीविषिब्यः पः" (पं।उ।३।२३) इति वर्तमाने "सुशृब्यां निच्च" (पं।उ।३।२६) इति शृणातेः पः निच्च। बाहुलकादूत्त्वं च। अथ वा--"शूर्प माने" (धा।पा।१६१२) असमाद्घञ्(), तेन शूर्पशब्द आद्युदात्तः। पाय्यशब्दो ण्यति "पाय्यसान्नाय्य" ३।१।१२९ इति निपात्यते तेनायमन्तस्वरितः। कुण्डशब्दः पूर्वमेवोक्तस्वरः। "द्विकंसः" इति। द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः, ततः प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्? "कंसाट्टिठन्()" ५।१।२५ इति टिठन्(), तस्य चापि "अध्यद्र्धपूर्व" ५।१।२८ इत्यादिना लुक्()। "त्रिकंसः" इति। पूर्वेण तुल्यम्()। "द्विमन्थः" इति। "आर्हादगोपुच्छ" ५।१।१९ इत्यादिना ठक्()। शेषं समासादि पूर्ववत्()। "द्विशूर्पः" इतिष "शूर्पादन्यतरस्याम्()" ५।१।२६ इत्यञ्()। शेषं पूर्ववत्()। "द्विपाय्यः" इति। प्राग्वती यष्ठञ्()। शेषं पूर्ववत्()। "द्विकाण्डम्()" [द्विकाण्डः--काशिका] इति। द्वे काण्डे प्रमाणमस्येति "प्रमाणे द्वयसच्" ५।२।३७ इत्यादिना मात्रजादयः, तेषाम्? "प्रमाणे लो द्विगोर्नित्यम्()" (वा।५५८, ५५९) इति लोपः, समासः पूर्ववत्()। "परमकंसः" इति। अत्र समासस्वर एव भवति।