पूर्वम्: ६।२।८३
अनन्तरम्: ६।२।८५
 
सूत्रम्
ग्रामेऽनिवसन्तः॥ ६।२।८४
काशिका-वृत्तिः
ग्रामे ऽनिवसन्तः ६।२।८४

ग्रामशब्दे उत्तरपदे पूर्वपदम् आद्युदात्तं भवति न चेद् निवसद्वाचि भवति। मल्लग्रामः। विणिग्ग्रामः। ग्रामशब्दो ऽत्र समूहवाची। देवग्रामः। देवस्वामिकः इत्यर्थः। अनिवसन्तः इति किम्? दाक्षिग्रामः। माहकिग्रामः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे स तेषाम् इति व्यपदिश्यते।
न्यासः
ग्रामेऽनिवसन्तः। , ६।२।८४

"निवसन्तशब्दोऽयमौणादिको गृह्रते। "जृविशिभ्यां झच्()" (द।उ।६।१७) इति वर्तमाने "तृ()भूवहिवसिभासिसाधिगतिमण्डिजिनन्दिभ्यश्च" (द।उ।६।१९) [तृ()भृवहिवसिभासिसाधिगाडिमण्डिजिवन्दिभ्यश्च--द।उ।] इति वसेर्निपूर्वाज्झच्()। निवसतीति निवसन्तः। केचिच्छन्नन्तस्य वसच्छब्दसय ग्रहणं वर्णयन्ति। "मल्लग्रामः" इति। षष्ठीसमासः। "देवग्रामः" इति। वाटकपरिक्षिप्ते गृहसमुदाये ग्रामशब्दो वर्तते। तस्माद्देवस्वामिक इत्यर्थः। एतेन स्वस्वामिभावसम्बन्धा या साऽत्र षष्ठी समस्यते, न तु क्रियावाससम्बन्धेति दर्शयति; अन्यथा देवशब्दः पूर्वपद निवसन्तवाच्येव स्यादित्यभिप्रायः। "दाक्ष्यादयो निवसन्ति यस्मिन्()" इत्यादिना प्रत्युदाहरणे पूर्वपदस्य निवसन्तवाचित्वं दर्शयति॥