पूर्वम्: ६।२।८२
अनन्तरम्: ६।२।८४
 
सूत्रम्
अन्त्यात् पूर्वं बह्वचः॥ ६।२।८३
काशिका-वृत्तिः
अन्त्यात् पूर्वं बह्वचः ६।२।८३

जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात् पूर्वम् उदात्तं भवति। उपसरजः। मन्दुरजः। आमलकीजः। वडवाजः। बह्वचः इति किम्? दग्धजानि तृणानि।
न्यासः
अन्त्यात्पूंर्व बह्वचः। , ६।२।८३

अयमपि कृत्स्वरपबादो योगः। "दग्धजानि" इति। अत्र कृत्स्वर एव भवति॥