पूर्वम्: ६।२।६
अनन्तरम्: ६।२।८
 
सूत्रम्
पदेऽपदेशे॥ ६।२।७
काशिका-वृत्तिः
पदे ऽपदेशे ६।२।७

अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्दे उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्रपदेन प्रस्थितः। उच्चारपदेन प्रस्थितः। मूत्रशब्दः सिविमुच्योष्टेरू च इति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर् वा घञन्तः आद्युदात्तः। उच्चारशब्दो ऽपि घञन्तः थाथघञ्क्ताजबित्रकाणाम् ६।२।१४३ इत्यन्तोदात्तः। विशेषनसमासो ऽयं मयूरव्यंसकादिर् वा। अपदेशे इति किम्? विष्णोः पदम् विष्णुपदम्।
न्यासः
पदेऽपदेशे। , ६।२।७

"व्याजः" इति। छद्मेत्यर्थः। "मूत्रपदेन" इति। मूत्रव्याजेनेत्यर्थः। "ष्ट्रन्प्रत्ययान्तः" इति। "सिविमुच्योष्टेरूच्च" (द।उ।८।८३) [षिविमुच्योष्टेरू च-द।उ।] इत्यत्र ष्ट्रन्नित्यस्यानुवृत्तेः। "मूत्रयतेः" इति। "मूत्र पररुआवणे" (धा।पा।१९०९)। उच्चारशब्दोऽपि घञन्तः। ""थाथादि" इत्यादि। "घञन्तत्वात्()॥