पूर्वम्: ६।२।७६
अनन्तरम्: ६।२।७८
 
सूत्रम्
संज्ञायां च॥ ६।२।७७
काशिका-वृत्तिः
संज्ञायां च ६।२।७७

संज्ञायां विषये अणन्ते उत्तरपदे अकृञः पूर्वपदम् आद्युदात्तं भवति। तन्तुवायो नाम कीटः। वालवायो नाम पर्वतः। अकृञः इत्येव, रथकारो नाम ब्राह्मणः।
न्यासः
संज्ञायां च। , ६।२।७७