पूर्वम्: ६।२।७५
अनन्तरम्: ६।२।७७
 
सूत्रम्
शिल्पिनि चाकृञः॥ ६।२।७६
काशिका-वृत्तिः
शिल्पिनि च अकृञः ६।२।७६

शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति, स चेदण् कृञो न भवति। तन्तुवायः। तुन्नवायः। वालवायः। शिल्पिनि इति किम्? काण्डलावः। शरलावः। अकृञः इति किम्? कुम्भकारः। अयस्कारः।
न्यासः
शिल्पिनि चाकृञः। , ६।२।७६

अनियुक्तार्थ वचनम्()। "अकृञः" इति। शिल्पिवशेषे प्रतिषेधं वक्ष्यामीत्येवमर्थञ्च। "तन्तुवायः" इति। "वेञ्? तन्तुसन्ताने" (धा।पा।१००६) इति। तन्तून्? वयतीति ह्वावामश्च" ३।२।२ इत्यण्(), "आतो युक्? चिण्कृतोः" ७।३।३३ इति युक्()। "अयस्कारः" ति। "अतः कृकमि" ८।३।४६ इत्यादिना विसर्जनीयस्य सकारः। प्रत्युदाहरणेषु कृत्स्वर एव भवति॥