पूर्वम्: ६।२।७७
अनन्तरम्: ६।२।७९
 
सूत्रम्
गोतन्तियवं पाले॥ ६।२।७८
काशिका-वृत्तिः
गोतन्तियवं पाले ६।२।७८

गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्दे अद्युदात्तनि भवन्ति। गोपालः। तन्तिपालः। यवपालः। अनियुक्तार्थ आरम्भः। गोतन्तियवम् इति किम्? वत्सपालः। पाले इति किम्? गोरक्षः।
न्यासः
गोतन्तियवं पाले। , ६।२।७८

"गोपालः" इति। "पा रक्षणे" (धा।पा।१०५६), पूर्ववदण्()। "अनियुक्तार्थ आरम्भः" इति। नियुक्ते "अणि नियुक्ते" ६।२।७५ इत्यनेनैव सिद्धत्वात्()। "गोरक्षः" इति। "रक्ष पालने" (धा।पा।६५८)॥