पूर्वम्: ६।२।७२
अनन्तरम्: ६।२।७४
 
सूत्रम्
अके जीविकाऽर्थे॥ ६।२।७३
काशिका-वृत्तिः
अके जीविकाऽर्थे ६।२।७३

अकप्रत्ययान्ते उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदम् आद्युदात्तं भवति। दन्तलेखकः। नखलेखकः। अवस्करशोधकः। रमणीयकारकः। दन्तलेखनादिभिर् येषां जीविका त एवम् उच्यन्ते। नित्यं क्रीडाजीविकयोः २।२।१७ इति समासः। अके इति किम्। रमणीयकर्ता। जीविकार्थे इति किम्? इक्षुभक्षिकां मे धारयसि।
न्यासः
अके जीविकार्थे। , ६।२।७३

"अके इति प्रत्ययग्रहणम्()। तत्र प्रत्ययग्रहणपरिभाषया (नी।प।वृ।३१) तदन्तस्य ग्रहणं विज्ञायत इत्याह--"अकप्रत्ययान्त उत्तरपदे" इति। "जीविकावाचिनि" इति। जीविका=जीवकः तद्वाचिनीत्यर्थः। जीविकाशब्दो ह्रर्शाअदेराकृतिगणत्वान्मत्वर्थीयाकारान्तः सूत्र उपात्तः। अत एव वृत्तौ दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्त इत्याह--"दन्तलेखलः" इति। लिकेर्ण्वुल्(), षष्ठीसमासः। षष्ठी पुनः "कर्तृकर्मणोः कृति" २।३।६५ इति कर्मणि। "अवस्करशोधकः" इति। "शुध शौचकर्मणि" (धा।पा।११९१) ["शौचे"--धा।पा।] इत्यस्माण्ण्यन्ताण्ण्वुल्()। "रमणीयकारकः" इत्यत्रापि करोतेः। "रमणीयकत्र्ता" इति। पूर्ववत्? समासः। अत्र "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति प्रकृतिभावेनोत्तरपदमन्तोदात्तम्()। "इक्षुभक्षिकाम्()" इत्यादि। "पर्यायर्हणोत्पत्तिषु ण्वच्()" ३।३।१११ इति भक्षयतेर्ण्वुच्()। अत्र "षष्ठी" २।२।८ इति समासलक्षणेनैव समासः। अत्रापि पूर्ववदुत्तरपदमन्तोदात्तम्()। कृत्स्वरापवादो योगः। एवमुत्तरत्रापि योगाः। "युक्तारोह्रादयश्च" (६।२।८१) इत्यतः प्राक्? कृत्स्वरापवादो वेदितव्यः॥