पूर्वम्: ६।२।७१
अनन्तरम्: ६।२।७३
 
सूत्रम्
गोबिडालसिंहसैन्धवेषूपमाने॥ ६।२।७२
काशिका-वृत्तिः
गोबिडालसिंहसैन्धवेषु उपमाने ६।२।७२

गवादिषु उपमानवाचिषु उत्तरपदेषु पूर्वपदम् आद्युदात्तं भवति। धान्यगवः। भिक्षाबिडालः। तृणसिंहः। काष्ठसिंहः। सक्तुसैन्धवः। पानसैन्धवः। धान्यं गौरिव इति विगृह्य व्याघ्रादेराकृतिगणत्वादुपमितं व्याघ्रादिभिः इति समासः। उपमानार्थो ऽपि यथासम्भवम् यथाप्रसिद्धि च योजयितव्यः। गवाकृत्या संनिवेशितं धान्यम् धान्यगवशब्देन उच्यते। उपमाने इति किम्? परमसिंहः।
न्यासः
गोबिडालासिंहसैन्धवेषूपमाने। , ६।२।७२

उपमानशब्दोऽयं गवादिभिः प्रत्येकमभिमसम्बध्यते; अन्यथैकवचनान्तस्य बहुवचनान्तैः समानाधिकरणेन विशेष्यविशेषणभावो न स्यात्()। थ वा सुब्व्यत्यये बहुवचनस्यैव स्थान इदमेकवचनं द्रष्टव्यम्()। "धान्यगवः" इति। "गोरतद्धितलुकि" ५।४।९१ टच समासान्तः। अत्र चित्स्वरे प्राप्ते पूर्वपदस्याद्युदात्ततवं विधीयते। "भिक्षाबिडालः" इत्येवमादौ समासस्वरे। उपमानार्थोऽपि" इत्यादि। योऽयमत्रोदाहरणे उपमानार्थः सम्भवति, स तत्र योजयितव्यः। "यथाप्रसिद्धि च" इति। यस्योपमानस्यार्थस्य च लोके प्रसिद्धिः स तथा योजयितव्यः। तत्र दिङ्मात्रमुपमानार्थयोजनस्य दर्शयितुमाह--गवाकृतिः=गोसंस्थानम्(), तया सन्निवेशितं गोर्यत्संस्थानं तेन सन्निवेशितं व्यवस्थापितं धान्यगवशब्देनोच्यते; तुल्याकृतित्वात्()। एवमन्यत्रापि यत्? किञ्चित्? सादृश्यं योज्यम्()। यथा गोरचनाविशेषावयवानामेवं यस्य हिरण्यस्य तद्धिरण्यं हिरण्यगवशब्देनोच्यते। यथा बिडाला अल्पप्रमाणास्तथा हि भिक्षा, यथा वा बिडालाः क्वचिद्भवन्ति न सर्वत्र तथा भिक्षापि। एवं श्राणाबिडालयोः सादृश्यमेवञ्जातीयकं योजयितव्यम्()। सिंहाकृत्या सन्निविष्टं तृणं तृणसिंहः। यथा सैन्धवं शुक्लमेवं सक्तुः सक्तुस#ऐन्धवः। एवं पानसैन्धवः॥