पूर्वम्: ६।२।७३
अनन्तरम्: ६।२।७५
 
सूत्रम्
प्राचां क्रीडायाम्॥ ६।२।७४
काशिका-वृत्तिः
प्राचां क्रीडायां ६।२।७४

प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदम् आद्युदात्तं भवति। उद्दालकपुष्पभज्जिका। वीरणुपुष्पप्रचायिका। शालभञ्जिका। तालभञ्जिका। संज्ञायम् ३।३।१०९ इति ण्वुल्। नित्यं क्रीडाजीविकयोः २।२।१७ इति षष्ठीसमासः। प्राचाम् इति किम्? जीवपुत्रप्रचायिका। इयम् उदीचां क्रीडा। क्रीडायाम् इति किम्? तवपुष्पप्रचायिका। पर्याये ण्वुच्प्रत्ययो भवति।