पूर्वम्: ६।२।७०
अनन्तरम्: ६।२।७२
 
सूत्रम्
भक्ताख्यास्तदर्थेषु॥ ६।२।७१
काशिका-वृत्तिः
भक्ताऽख्यास् तदर्थेषु ६।२।७१

भक्तमन्नम्, तदाख्यास् तद्वाचिनः शब्दाः, तदर्थेषु उत्तरपदेषु आद्युदात्ता बवन्ति। भिक्षाकंसः। श्राणाकंसः। भाजीकंसः। भिक्षादयो ऽन्नवचनाः। भक्ताख्याः इति किम्? समाशशालयः। समशनं समाशः इति क्रियामात्रम् उच्यते, न द्रव्यम्। तदर्थेसु इति किम्? भिक्षाप्रियः। बहुव्रीहिरयम्, अत्र पूर्वपदम् अन्तोदात्तम्।
न्यासः
भक्तख्यास्तदर्थेषु। , ६।२।७१

आख्याग्रहणं स्वरूपविधिनिरासार्थम्()। ननु च बहुवचनादेव स्वरूपविधिर्न भविष्यति? नैतदस्ति; बहुवचनं ह्रेतदर्थस्यैव बहुत्वमाचक्षीत--बह्वर्थवृत्तिर्यो भक्तशब्द इति। अपि च बहुवचनेन स्वरूपविधौ बाधितेऽन्नादय एव ये भक्तशब्देन समासार्थपर्यायास्ते गृह्रेरन्(), न तु भकतविशेषवाचिनो भिक्षादयः। आख्याग्रहणे तु स्वरूपविदौ बाधिते बहुवचनेन तद्विशेषाणां ग्रहणं सम्पद्यते। तस्मा इदं तदर्थम्()। तच्छब्देन भक्ताख्यानामर्थो निर्दिश्यते। "भिक्षाकंसः" इत्येवमादयः "चतुर्थी तदर्थार्थ" २।१।३५ इति चतुर्थीसमासाः। ननु च प्रकृतिविकृतिग्रहणं तत्र चोद्यते, न चेह प्रकृतिविकारभावः? सत्यमेतत्(); इदमेव तु वचनं ज्ञापकम्--भक्ताख्यायां तादथ्र्यमात्रे चतुर्थी समस्यत इति। "समशनं समाशः" इति। "अशू भोजने" (धा।पा।१५२३) [अश भोजने--धा।पा] इत्यस्मात्? सम्पूर्वाद्भावे घञ्()। "क्रियामात्रमुच्यते" इति। मात्रशब्देन भक्तव्यवच्छेदं करोति। "अत्र पूर्वपदमन्तोदात्तम्()" इति। भिक्षाशब्दः "गुरोश्च हलः" ३।३।१०३ इति भिक्षेरप्रत्ययं कृत्वा व्युत्पाद्यते, श्राणाशब्दोऽपि "श्रै पाके" (धा।पा।९१९) इत्यस्मात्? क्तप्रत्ययम्()। तेन द्वावपि प्रत्ययस्वरेणान्तोदात्तौ। "बहुव्रीहौ प्रकृत्या" ६।२।१ इति प्रकृतिभावेनान्तोदात्तादेव भवतः। समाससवरापवादो योगः॥