पूर्वम्: ६।२।६९
अनन्तरम्: ६।२।७१
 
सूत्रम्
अङ्गानि मैरेये॥ ६।२।७०
काशिका-वृत्तिः
अङ्गानि मैरेये ६।२।७०

मैरेयशब्दे उत्तरपदे तदङ्गवाचिनि पूर्वपदान्याद्युदात्तानि भवन्ति। गुडमैरेयः। मधुमैरेयः। मद्यविशेषो मैरेयस्तस्य गुडविकारस्य गुदो ऽङ्गं भवति, मधुविकारस्य तस्य मधु अङ्गम्। अङ्गानि इति किम्? परममैरेयः। मैरेये इति किम्? पुष्पासवः। फलासवः।
न्यासः
अङ्गानि मैरेये। , ६।२।७०

अङ्गशब्दोऽयं कारणवाची। आरम्भकं यत्? तदङ्गमुच्यते। अङ्गानीति बहुवचनं स्वरूपविधिनिरासार्थम्()। सुरावज्र्यं मद्यम्()=मैरेयमित्यभिधीयते। "गुडमैरेयः, मधुमैरेयः" इति। ष्ठासमासः। "गुडविकारस्य मैरयस्य गुडोऽङ्गम्()" इति। तत्कारणत्वात्()। अयमपि समासस्वरापवादो योगः॥