पूर्वम्: ६।२।५
अनन्तरम्: ६।२।७
 
सूत्रम्
प्रतिबन्धि चिरकृच्छ्रयोः॥ ६।२।६
काशिका-वृत्तिः
प्रतिबन्धि चिरकृच्छ्रयोः ६।२।६

तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृतिस्वरं भवति। गमनचिरम्। गमनकृच्छ्रम्। व्याहरणचिरम्। व्याहरणकृच्छ्रम्। गमनव्याहरनशब्दौ ल्युडन्तौ, तयोर् लित्स्वरः। गमनं च यच्चिरं च इति विशेषणसमासो ऽयम्, मयूरव्यंसकादिर् वा एष द्रष्टव्यः। गमनं हि कारणविकलतया विरकालभावि कृच्छ्रयोगि वा प्रतिबन्धि जायते। प्रतिबन्धि इति किम्? मूत्रकृच्छ्रम्।
न्यासः
प्रतिबन्धि चिरकृच्छ्रयोः। , ६।२।६

कार्यसिदिं()ध प्रतिवध्नाति विहन्तीति प्रतिबन्धि। ताच्छील्य आवश्यके वा णिनिः। "विशेषणसमासे कृते" इति। ननु च विशेषणसमासः सामानाधिकरण्ये भवति; न चेदं सामानाधिकरण्यम्(), कथं पुनरत्र पूर्वपदं प्रतिबन्धि भवति? इत्याह--"गमनम्()" इत्यादि। अचिरकालभाविनि गमने कार्यसिद्धिर्निष्पद्यते। "कृच्छ्रयोगि च" इति। कृच्छ्रम्()=दुःखम्(), तद्योगिनि गमने गन्ता प्राप्यमर्थं दुःखेनाभिहन्यमानो न प्राप्नोति तस्माच्चिरकालभावि कृच्छ्रयोगि वा यद्? गमनं तत्? कार्यसिद्धेः प्रतिबन्धि जायते॥