पूर्वम्: ६।२।६२
अनन्तरम्: ६।२।६४
 
सूत्रम्
राजा च प्रशंसायाम्॥ ६।२।६३
काशिका-वृत्तिः
राजा च प्रशंसायाम् ६।२।६३

राजशब्दः पूर्वपदं शिलिवाचिनि उत्तरपदे प्रशंसायां गम्यमानायाम् अन्यतरस्यां प्रक्र्तिस्वरं भवति। राजनापितः, राजनापितः। राजकुलालः, राजकुलालः। कर्मधारये राजगुणाध्यरोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यतया तस्य। राजा इति किम्? परमनापितः। प्रशंसायाम् इति किम्? राजनापितः। शिल्पिनि इत्येव, राजहस्ती।
न्यासः
राजा च प्रशंसायाम्?। , ६।२।६३

"कर्मधारये" इत्यादि। राजनापितः" इति। कर्मधारयोऽयं वा स्यात्(), षष्ठीतत्पुरुषो वा? तत्र यदा कर्मधारयस्तदा राजशब्दस्य नापित उपचारेण वृत्तिः। उपचारस्तु राजगुणारोपनिबन्धनः, अतस्तेनैवोत्तरपदस्य प्रशंसा भवति। कथं पुनर्नापितः षष्ठीसमासेन राजनापितशब्देनोच्यते? इत्याह "राजयोग्यतया तस्य" इत्यादि। स हि स्वकर्मणि प्रवीणत्वाद्राजानं प्रति योग्यो भवति। अतोऽपि राजनापित इति षष्ठीसमासेनोच्यते। अत्र पक्षे तस्यैव योग्यतयोत्तरपदस्य प्रशंसा वेदितव्या॥