पूर्वम्: ६।२।६३
अनन्तरम्: ६।२।६५
 
सूत्रम्
आदिरुदात्तः॥ ६।२।६४
काशिका-वृत्तिः
आदिरुदात्तः ६।२।६४

आदिरुदात्तः इत्येतदधिकृतम्। इत उत्तरं यद् वक्ष्यामः तत्र पूर्वपदस्य आदिरुदात्तो भवति इत्येवं तद्वेदितव्यम्। वक्ष्यति सप्तमीहारिणौ धर्म्ये ऽहरणे ६।२।६५ इति। स्तूपेशाणः। सुकुटेकार्षापणम्। याज्ञिकाश्वः। वैयाकरणहस्ती। दृषदिमाषकः। आदिरिति प्रागन्ताधिकारात्। उदात्तः इति प्रकृत्या भगालम् ६।२।१३६ इति यावत्।
न्यासः
आदिरुदात्तः। , ६।२।६४

"अदिः" इत्यादिनाद्यधिकारस्यावधिं दर्शयति। "उदात्तः" इत्यादिनाप्युदात्ताधिकारस्य॥