पूर्वम्: ६।२।६१
अनन्तरम्: ६।२।६३
 
सूत्रम्
ग्रामः शिल्पिनि॥ ६।२।६२
काशिका-वृत्तिः
ग्रामः शिल्पिनि ६।२।६२

ग्रामशब्दः पूर्वपदं शिल्पिवाचिन्युत्तरपदे ऽन्यत्रस्यां प्रकृतिस्वरं भवति। ग्रामनापितः, ग्रामनापितः। ग्रामकुलालः, ग्रामकुलालः। ग्रामशब्दः आद्युदात्तः। ग्रामः इति किम्? परमनापितः। शिल्पिनि इति किम्? ग्रामरथ्या।
न्यासः
ग्रामः शिल्पिनि। , ६।२।६२

सप्तमीनिर्दिष्टग्रहणमनुवर्तते। तेन शिल्पिनीत्यर्थग्रहणम्()। ग्राम इति स्वरूपग्रहणमेव। "ग्रामनापितः" इति। षष्ठीसमासः समासस्वरापवादो योगः। एवमुत्तरोऽपि॥