पूर्वम्: ६।२।६०
अनन्तरम्: ६।२।६२
 
सूत्रम्
क्ते नित्यार्थे॥ ६।२।६१
काशिका-वृत्तिः
क्ते नित्यार्थे ६।२।६१

क्तान्ते उत्तरपदे नित्यार्थे समासे पूर्वपदम् अन्यतरस्यां प्रक्र्तिस्वरम् भवति। नित्यप्रहसितः, नित्यप्रहसितः। सततप्रहसितः, सततप्रहसितः। कालाः इति द्वितीयासमासो ऽयम्। नित्यशब्दः त्यब्नेर्घ्रुवे इति त्यबन्तः आद्युदात्तः। सतत इति यदा भावे क्तः तदा थाथादिस्वरेण अन्तोदात्तः। नित्यार्थे इति किम्? मुहूर्तप्रहसितः।
न्यासः
क्ते नित्यार्थे। , ६।२।६१

नित्यशब्द आभीक्ष्ण्ये, न कूटस्थे। कुत एतत्()? क्त इत्युच्यते, क्तश्च धातोर्विधीयते, धातुश्च क्रियावचनः। क्रियापाश्च कौटस्थ्यं नोपपद्यते; क्षणिकत्वात्? क्रियायाः। तस्यास्तु पौनःपुन्याद्यपेक्षया युक्तमाभीक्ष्ण्यम्()। "कालाः २।१।२७ इति द्वितीयासमासोऽयम्()" इति। द्वितीया तु "कालाध्वनोरत्यन्तसंयोगे" २।३।५ इति। अथ वा--कर्मण्येव। कर्मसंज्ञा तु "कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्()" (म।भा।१।४।५१) इति वचनात्()। "नित्यशब्दः" इत्यादि। अनेन "ध्रुव उपसंक्यानम्()" (वा।४३४) इति नेर्नित्यशब्दो व्युत्पाद्यते त्यदन्तः। ततश्च त्यपः पित्त्वेनानुदात्तत्वान्नेश्चोदात्तत्वादाद्युदात्तो भवति। "सततमिति यदा कर्मणि क्तस्तदा थाथादिस्वरेणान्तोदात्तः" इति--अयुक्तोऽयं पाठः। यदा हि कर्मणि क्तस्तदा "गतिरनन्तरः" ६।२।४९ इति गतेः प्रकृतिभावे सत्याद्युदात्तेन सततशब्देन भवितव्यम्()। तस्मात्? "सततमिति यदा भावे क्तस्तदा थाथादि ६।२।१४३ स्वरेणान्तोदात्तः" इत्ययं तत्रानवद्यः पाठो वेदितव्यः। तथा हि सततशब्दोऽपि थाथादिस्वरेणान्तोदात्तः ६।२।१४३। भावे हीयं निष्ठेति गतिस्वरो न भवतीत्युक्तम्()। यदा तु क्रमणि क्तस्तदा तु गतिस्वरेण सततशब्द द्युदात्त एव भवति। "समो वा हितततयोः" (वपा।६।१।१४४) इति समो मकारलोपः। "मुहूर्तप्रहसितः" इति। अत्र थाथादिस्वर (६।२।१४४) एव भवति प्रहसित इति हसेरकर्मक्तावत्? कर्तरि क्तः। समासस्वरे द्वितीयापूर्वपदप्रकृतिसवरेण बाधिते सति थाथादिस्वरः प्राप्नोति। अतस्तदपदादो योगः॥