पूर्वम्: ६।२।४
अनन्तरम्: ६।२।६
 
सूत्रम्
दायाद्यं दायादे॥ ६।२।५
काशिका-वृत्तिः
दायाद्यं दायादे ६।२।५

तत्पुरुषे समासे दायादशब्दे उत्तरपदे दायाद्यवाचि पूर्वपदं प्रकृतिस्वरं भवति। विद्यादायादः। धनदायादः। संज्ञायां समजनिषद इति विद्याशब्दः क्यप्प्रत्ययान्तः। उदात्तः इति च तत्र वर्तते, तेन अयम् अन्तोदात्तः। कृ̄पृ̄वृजिमन्दिनिधाञ्भ्यः क्युः इति बहुलवचनात् केवलादपि धाञः क्युः प्रत्ययः, तेन धनशब्दः प्रत्ययस्वरेण आद्युदात्तः। अथ विद्यादायादः इति केन षष्ठी? स्वामीरीश्वराधिपतिदायाद इति। यद्येवं प्रतिपदविधाना च षष्ठी न समस्यते इति समासप्रतिषेधः प्राप्नोति? एवं तर्हि शेषलक्षणैवात्र षष्ठी, तस्यस् तु सप्तमी विधीयमाना बाधिका मा विज्ञायि इति पुनरभ्यनुज्ञायते। दायाद्यम् इति किम्? परमदायादः। अत्र समासान्तोदातत्वम् एव भवति।
न्यासः
दायाद्यं दायादे। , ६।२।५

दायः=भागः, अंश इत्यर्थः। दायमादत्त इति दायादः। मूलविभुजादित्वात्? कः (वा।२३२)। दायादस्य कर्म दायाद्यम्()। किं पुनस्तत्()? दाय एव। स हि दायादिरादीयमानः कर्म भवति। "उदात्त इति च तन्न वर्तते" इति। "मन्त्रे वृष" ३।३।९६ इत्यादेः सूत्रात्()। ननु च निपूर्वः सूत्रे धातुरुदात्तः तत्? कथं केवलाद्भवति? इत्याह--"बहुलवचनात्()" इत्यादि। यदि "स्वामी()आराधिपति" २।३।३९ इत्यादिना षष्ठी विधीयते। सप्तम्येव हि विधातव्या, न षष्ठी, तस्याः "शेषे" (२।३।५०) इत्येव सिद्धत्वात्()? इत्यत आह--"तस्यास्तु" इत्यादि। यदि सप्तम्येव विधीयते, ततोऽसौ विशेषविहितत्वात्? षष्ठ()आ बाधिका विज्ञायेत, न त्वेवं विज्ञायेतेति पुनरनयैव शेषलक्षणषष्ठ()भ्यनुज्ञायते, न त्वपूर्वा विधीयते। तेनाप्रतिपदविहितत्वाद्भवत्येव समासः। "परमदायादः" इति। अत्र पूर्वपदं पूजावाचि, न दायाद्यवाचि॥