पूर्वम्: ६।२।५५
अनन्तरम्: ६।२।५७
 
सूत्रम्
प्रथमोऽचिरोपसम्पत्तौ॥ ६।२।५६
काशिका-वृत्तिः
प्रथमो ऽचिरौपसम्पत्तौ ६।२।५६

प्रथमशब्दः पूर्वपदम् अचिरोपसम्पत्तौ गम्यमानायाम् अन्यतरस्यां प्रक्र्तिस्वरं भवति। अचिरोपसम्पत्तिः अचिरोपश्लेषः, अभिनवत्वम्। प्रथ्मवैयाकरणः, प्रथमवैयाकरणः। अभिनववैयाकरणः, सम्प्रति व्याकरणम् अध्येतुं प्रवृत्तः इत्यर्थः। प्रथमशब्दः प्रथेरमचिति चित्त्वादन्तोदात्तः। अचिरोपसम्पत्तौ इति किम्? प्रथमवैयाकरणः। वैयाकरणानामाद्यो मुख्यो वा यः स नित्यो ऽन्तोदात्तः एव।
न्यासः
प्रथमोऽचिरोपसम्पत्तौ। , ६।२।५६

"अचिरोपश्लेषः" इति। अचिरकालसम्बन्ध इत्यर्थ-। अस्यैवार्थ प्रसिद्धतरार्थेन प्रदर्शयतुमाह--"अभिनवत्वम्()" इति। "प्रथमवैयाकरणः" इति। प्रथमश्च वैयाकरणश्चेति "पूर्वापर" २।१।५७ इत्यादिना समासः। तत्र यत्तद्वैयाकरणत्वं व्याकरणस्याध्येतृत्वम्()। अनेनाचिरकालसम्बन्धोऽध्येतुर्गम्यते। अभिनववैयाकरणादिनाऽचिरकालोपसम्पत्तिमुदाहरणे दर्शयति। "आद्यो मुख्यो यः सः" इति। अनेनापि प्रत्युदाहरणविषयस्य प्रथमशब्दस्यान्यार्थतां च पक्षेऽचिरोपसम्पत्तेरभावं च। अयमपि समासस्वरापवादो योगः। एवमुत्तरेऽपि॥