पूर्वम्: ६।२।५६
अनन्तरम्: ६।२।५८
 
सूत्रम्
कतरकतमौ कर्मधारये॥ ६।२।५७
काशिका-वृत्तिः
कतरकतमौ कर्मधारये ६।२।५७

कतरशब्दः कतमशदश्च पूर्वपदम् कर्मधारये समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति। कतरकठः, कतरकठः। कतमकठः, कतमकठः। कर्मधारयग्रहणम् उत्तरार्थम् इह तु प्रतिपदोक्तत्वादेव सिद्धम्।
न्यासः
कतरकतमौ कर्मधारये। , ६।२।५७

"किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्()" ५।३।९२ "वा बूनां जातिपरिप्रश्ने डतमच्()" ५।३।९३ इति कतरकतमशब्दौ व्युत्पाद्येते, तेन तौ चित्स्वरेणान्तोदात्तौ। "कतरकठः" इति। "कतरकतमौ जातिपरिप्रश्ने" २।१।६२ इति समानाधिकरणसमासः। एतदर्थमपि कर्मधारयग्रहणं कस्मान्न भवति? इत्याह--"इह तु" इत्यादि। कतरकतमशब्दयोर्हि यः प्रतिपदसमासः स एव लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) विज्ञायते। स च कर्मधारय एव। तस्मात्? प्रतिपदोक्तत्वादेवैतत्समासस्य कर्मधारयत्वम्()। तस्मन्नैतदर्थं कर्मधारयग्रहणमुपपद्यते॥