पूर्वम्: ६।२।५४
अनन्तरम्: ६।२।५६
 
सूत्रम्
हिरण्यपरिमाणं धने॥ ६।२।५५
काशिका-वृत्तिः
हिरण्यपरिमाणं धने ६।२।५५

हिरण्यपरिमाणवाचि पूर्वपदं धनशब्दे उत्तरपदे ऽन्यतरस्यां प्रक्र्तिस्वरं भवति। द्विसुवर्णधनम्, द्विसुवर्णधनम्। द्वौ सुवर्णौ परिमाणम् अस्य द्विसुवर्णम्, तदेव धनम् इति कर्मधारयः। बहुव्रीहावपि परत्वाद् विकल्प एव भवति। द्विसुवर्नधनः, द्विसुवर्णधनः। हिरण्यग्रहणम् किम्? प्रस्थधनम्। परिमाणग्रहणं किम्? काञ्चनधनम्। धने इति किम्? निष्कमाला।
न्यासः
हिरण्यपरिमाणं धने। , ६।२।५५

हिरण्यपरिमाणं परिमाणवद् हिरण्यमित्यर्थः। इह तु तद्वाचिशब्दरूपं गृह्रते। "द्विसुवर्णधनम्()" इति। सुवर्णशब्दो हिरण्यपरिमाणविशेषवाची। द्वे सुवर्णे परिमाणमस्येति "तद्धितार्थ" २।१।५० इति समासः। "तदस्य परिमाणम्()" ५।१।५६ इति "प्राग्वतेष्ठञ्()" ५।१।१८ "अध्यर्धपूर्व" (५।१।२८ इत्यादिना लुक्(), ततो धनशब्देन सह कर्मधारयः। द्विसुवर्णशब्दः समासस्वरेणान्तोदात्तः। "बहुव्रीहावपि" इत्यादि। यद्वा--द्विसुवर्ण धनं यस्येति बहुव्रीहिः; तदपि परत्वाद्विकल्प एव भवति; न तु "बहुव्रीहौ प्रकृत्या" ६।२।१ इत्येष नित्यो विधिः। "प्रस्थधनम्()" इति। अयमपि कर्मधारयः। बहुव्रीहिर्वा। प्रस्थशब्दो भवति परिमाणं, न तु हिरण्यसय, किं तर्हि? धान्यादेः। "काञ्चनधनम्()" इति। यदि परिमाणग्रहणं न क्रियेत, तदा "हिरण्यम्()" इत्येताददुच्यमान इहापि स्यात्(); काञ्चनशब्दस्य हिरण्यवाचित्वात्()। हिरण्यवाच्यपि परिमाणवाची न भवतीति न भवत्येष प्रसङ्गः। अयमपि समासस्वरापवादो योगः॥