पूर्वम्: ६।२।५३
अनन्तरम्: ६।२।५५
 
सूत्रम्
ईषदन्यतरस्याम्॥ ६।२।५४
काशिका-वृत्तिः
ईषदन्यतरस्याम् ६।२।५४

ईषतित्येतत् पूर्वपदम् अन्यतरस्यां प्रक्र्तिस्वरं भवति। ईषत्कडारः, ईषत्कडारः। ईषत्पिङ्गलः, ईषत्पिङ्गलः। ईषतित्ययम् अन्तोदात्तः। ईषद्भेदः इत्येवम् आदौ कृत्स्वर एव भवति।