पूर्वम्: ६।२।५२
अनन्तरम्: ६।२।५४
 
सूत्रम्
न्यधी च॥ ६।२।५३
काशिका-वृत्तिः
न्यधी च ६।२।५३

नि अधि इत्येतौ चाञ्चतौ वप्रत्यये परतः प्रकृतिस्वरौ भवतः। न्यङ्, न्यञ्चौ, न्यञ्चः। उदात्तस्वरितयोर् यनः स्वरितो ऽनुदात्तस्य ८।२।४ इत्यञ्चतेरकारः स्वरितः। अध्यङ्, अध्यञ्चौ, अध्यञ्चः। अधीचः। अधीचा।
न्यासः
न्यधी च। , ६।२।५३

इगन्तार्थोऽयमारम्भः। "उदाततसवरितयोः" इत्यादि। निरुदात्तः "उपसर्गाश्चाभिवर्जम्()" (फि।सू।४।८१) इति, तेन तदकारस्थाने यो यणादेशः स उदात्तयण्()। तेन "उदात्तस्वरितयोः" ८।२।४ इत्यादिना ततः परमञ्चतेरकारः स्वरितो भवति। अध्यङित्यादौ तु न भवति; आदेशाद्युदात्तत्वात्(), यणादेश उदत्तयण्? न भवतीति कृत्वा॥ समासस्वरापवादोऽयं योगः। "ईषत्कडारः" इति। "ईषदकृता" २।२।७ इति समासः। यदायं प्रकृतिभावो न भवति, तदा समासान्तोदात्तत्वमेव भवति। "ईषद्भेद इत्येवमादौ कृत्स्वर एव भवति" इति। परत्वादिति भावः। आदिशब्देन ईषत्कर इत्यादीनां ग्रहणम्()। "ईषद्()दुःसुषु" ३।३।१२६ इत्यादिना खल्()॥