पूर्वम्: ६।२।३९
अनन्तरम्: ६।२।४१
 
सूत्रम्
उष्ट्रः सादिवाम्योः॥ ६।२।४०
काशिका-वृत्तिः
उष्ट्रः सादिवाम्योः ६।२।४०

उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति। उष्ट्रसादि। उष्ट्रवामि। उष्ट्रशब्द उषेः ष्ट्रन् प्रत्ययान्तः आद्युदात्तः। कर्मधारयो ऽयं षष्ठीसमासो वा।
न्यासः
उष्ट्रः सादिवाम्योः। , ६।२।४०

"सर्वधातुभ्यः ष्ट्रन्()" (पं।उ।४।१५८) इत्यस्मात्? ष्ट्रन्नितयनुवरतमाने उषिखनिभ्यां कित्? (पं।उ।४।१६१) इत्येवं व्युत्पादितत्वात्()॥