पूर्वम्: ६।२।३८
अनन्तरम्: ६।२।४०
 
सूत्रम्
क्षुल्लकश्च वैश्वदेवे॥ ६।२।३९
काशिका-वृत्तिः
क्षुल्लकश् च वैश्वदेवे ६।२।३९

क्षुल्लक इत्येतत् पूर्वपदं महांश्च वैश्वदेवे उत्तरपदे प्रकृतिस्वरं भवति। क्षुल्लकवैश्वदेवम्। महावैश्वदेवम् क्षुधं लाति इति क्षुल्लः। तस्मादज्ञातादिसु प्रगिवात् के ऽन्तोदात्तः क्षुल्लकशब्दः।
न्यासः
क्षुल्लकश्च वै�आदेवे। , ६।२।३९

"क्षुधं लातीति क्षुल्लः" इति। "आतोऽनुपसर्गे कः" ३।२।३ इति कप्रत्ययः। "तोर्लि" ८।४।५९ इति परसवर्णः॥