पूर्वम्: ६।२।४०
अनन्तरम्: ६।२।४२
 
सूत्रम्
गौः सादसादिसारथिषु॥ ६।२।४१
काशिका-वृत्तिः
गौः सादसादिसारथिषु ६।२।४१

गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति। गोः सादः गोसादः। गां सादयति इति वा गोसादः। गोः सादिः गोसादिः। गोसारथिः।
न्यासः
गौः सादसादिसारथिषु। , ६।२।४१

"गोः सादः" इत्यनेन वाक्यशेषेण गोसादशब्दस्य षष्ठीसमासत्वं दर्शयति। "गां सादयतीति च" [वा--काशिका] इति। एतेनाप्युपदसमासत्वम्(); सवेर्विशरणार्थत्वात्? गोशब्दे कर्मण्युपपदे कृते गोसाद इति भवति। गोशब्दः "गमेर्डोस्()" (द।उ।२।११) [गमेर्डोः--पं।उ;द।उ।] इति डोस्प्रत्ययान्तत्वात्? प्रत्ययसवरेणान्तोदात्तः॥