प्रकृत्या पूर्वपदम् इति वर्तते, द्वन्द्वे इति निवृत्तम्। महानित्येतत् पूर्वपदं व्रीहि अपराह्ण गृष्टि इष्वास जाबाल भार भारत हैलिहिल लौरव प्रवृद्ध इत्येतेषु उत्तरपदेषु प्रकृतिस्वरं भवति। महव्रीहिः। महापराह्णः। महागृष्टिः। महेष्वासः। महाजाबालः। महाभारः। महाभारतः। महाहैलिहिलः। महारौरवः। महाप्रवृद्धः। महच्छब्दो ऽन्तोदात्तः, तस्य रतिपदोक्तो यः समासः सन्महत्परमोत्कृष्टाः पूज्यमानैः
२।१।६० इति तत्र एष स्वरः। तेन एषां षष्ठीसमासो ऽन्तोदात्त एव भवति, महतो व्रीहिः महद्व्रीहिः इति। कर्मधारये ऽनिष्ठा
६।२।४६ इत्ययम् अपि श्रेण्यादिसमासे विधिः इति प्रवृद्धशब्दः इह पठ्यते।
"महच्छब्दोऽन्तोदात्तः" इति। "वत्र्तमाने पृषद्बृहन्महत्()" (द।उ।६।५) इत्यन्तोदात्तस्य तस्योणादिषु निपातनात्()। अथेह कस्मान्न भवति।
महतो व्रीहिर्महद्व्रीहिः? इत्यात आह--"तस्य" इत्यादि। एतच्च लक्षणप्रतिपदोक्तपरिभाषया (व्या।प।३) लभ्यते। अथ किमर्थं प्रवृद्धशब्द इह पठ()ते, यावता निष्ठान्तोऽसौ, तत्र "कर्मधारयेऽनिष्ठा" (६।२।
४६) इति वक्ष्यमाणेनैव सिदधम्()? इत्यत आह--"कर्मधारयेऽनिष्ठ" इत्यादि। तथैव हि परिभाषया "श्रेण्यादयः कृतादिभः"
२।१।५८ इति तेन प्रतिपदोक्तेनायं समासः। तत्र "कर्षारयेऽनिष्ठा"
६।२।४६ इत्यनेन प्रकृतिबावस्याविधिः। न च महाप्रवृद्ध इत्ययं प्रतिपदोक्तेन निष्ठान्तेन कर्मधारयः; तत्र यदि प्रवृद्धशब्दोऽत्र न पठ()ते, तत्र परतः प्रकृतिभावो न स्यात्()।
तस्मात्? तस्येह पाठः क्रियते। योगश्चायं समासस्वरस्यापवादः॥