पूर्वम्: ६।२।२३
अनन्तरम्: ६।२।२५
 
सूत्रम्
विस्पष्टादीनि गुणवचनेषु॥ ६।२।२४
काशिका-वृत्तिः
विस्पष्टाऽदीनि गुणवचनेषु ६।२।२४

विस्पष्टादिनि पूर्वपदानि गुनवानेषु उत्तरपदेषु प्रकृतिस्वराणि भवन्ति। विस्पष्टकटुकम्। विचित्रकटुकम्। व्यक्तकटुकम्। विस्पष्टलवणम्। विचित्रलवणम्। व्यक्तलवणम्। विस्पष्टं कटुकम् इति विगृह्य सुप्सुपा इति समासः। विस्पष्टादयो ह्यत्र प्रवृत्तिनिमित्तस्य विशेषणम्। कटुकादिभिश्च शब्दैर् गुनवद् द्रव्यम् अभिधीयते इत्यसामानाधिकरन्यम् अतो न अस्ति कर्मधारयः। विस्पष्टशब्दो गतिरनन्तरः ६।२।४९ इत्याद्युदात्तः। विचित्रशब्दो ऽपि अव्ययस्वरेण। विचित्तशब्दमन्ये अहन्ति। सो ऽपि बहुव्रीहिस्वरेण आद्युदात्त एव। व्यक्तशब्दः उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४ इत्यादिस्वरितः। ये च अत्र अपरे पठ्यन्ते तत्र सम्पन्नशब्दस्थाथादिस्वरेण अन्तोदात्तः। पटुपण्डितशब्दौ प्रत्ययस्वरेण। कुशलशब्दः कृत्स्वरेण अन्तोदत्तः। चपलशब्दश्चित्स्वरेण अन्तोदात्तः, चुपेरच्चोपधायाः इत्यत्र हि चिदिति वर्तते। निपुणशब्दस्थाथादिस्वरेण अन्तोदत्तः, पुणेरिगुपधलक्षणः कप्रत्ययो ऽयम्। विस्पष्टादीनि इति किम्? परमलवणम्। उत्तमलवणम्। गुणवचनेषु इति किम्? विस्पष्टब्राह्मणः। विस्पष्ट। विचित्र। व्यक्त। सम्पन्न। पटु। पण्डित। कुशल। चपल। निपुण। विस्पष्टादिः।
न्यासः
विस्पष्टादीनि गणवचनेषु। , ६।२।२४

"विस्पष्टकटुकम्()" इति। कटुशब्दात्? "संज्ञायां कन्()" ४।३।१४५। "सुप्सेति समासः" इति। अथ "विशेषणं विशेष्येण बहुलम्()" (२।१।५७) इति विस्पष्टकटुकमित्यत्र विगृह्र कस्मात्? कर्मधारय एव न क्रियते? इत्याह--"विस्पष्टादयो ह्रत्र" इत्यादि। कर्मधारयो हि सामानाधिकरण्ये सति भवति। न चेह सामानाधिकरण्यमस्ति। तस्माद्विस्पष्टादयोऽत्र कटुकादेः शब्दस्य यत्? प्रवृत्तिनिमित्तं कटुकत्वादि तस्य विशेषणम्(), न तद्वतो द्रव्यस्य। कटुकादिभिश्च शब्दैः कटुकत्वलक्षणो [कटुकस्यास्तिलक्षणो यस्यास्ति--इति मुद्रितः पाठः] गुणो यस्यास्ति तद्गुणवद्()द्रव्यमभिधीयते। ततो वैयधिकरण्ये नास्ति कर्मधारायः। तस्माद्यथोक्तेन विधिना समासोऽत्रि कत्र्तव्यः। "विस्पष्टः" [विस्पष्टशब्दः--काशिका] इति। "स्पश बाधनस्पर्शनयोः" (धा।पा।८८७) इत्यस्य निष्ठायाम्? "दस्तस्पष्टच्छन्नज्ञप्ताः" [वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः--पा।सू।] ७।२।२७ इति स्पष्टशब्दो निपतितः, तस्य विशब्देन गतसमासः। "विचित्रशब्दः" इत्यादि। "चित्र चित्री करणे" (धा।पा।१९१७) चुरादि, तस्माद्घञ, विशेषेण चित्रं विचित्रम्(), प्रादिसमासः। "अव्ययस्वरेण" इति। "तत्पुरुषे तुल्यार्थं" ६।२।२ इत्यादिना विहितेन। अवययं पुनरत्र विशब्दः, तस्य च "निपाता आद्युदात्ताः" (फि।सू।४।८०) इत्याद्युदात्तत्वम्()। "विचित्तशब्दम्()" इति। चिती संज्ञाने" (धा।पा।३९) इत्यस्य निष्ठायां चित्तम्()। विगतं चित्तमस्येति बहुव्रीहि। "बहुव्रीहिस्वरेण" इति। "चिती संज्ञाने" (धा।पा।३९) इत्यस्य निष्ठायां चित्तम्()। विगतं चित्तमस्येति बहुव्रीहि। "बहुव्रीहिस्वरेण" इति। "बहुव्रीहौ प्रकृत्या" ६।२।१ इति विहितेन। "व्यक्तशब्दः" इत्यादि। अञ्जेर्विपूर्वस्य निष्ठायां गतिस्वर उदात्तः, तत्रेकारस्य स्थाने यो यण्? स उदात्तयण्? भवति, ततः परस्यकारस्यानुदात्तस्य स्वरितः। "सम्पन्नशब्द" इत्यादि। पदेः सम्पूर्वस्य निष्ठायां सम्पन्नशब्दः कत्र्तरि चेति। "पटुपण्डितशब्दौ प्रत्ययस्वरेण" इति। अन्तोदात्तग्रहणमेकवचनान्तं यत्? प्रकृतं तस्य विपरिणामं कृत्वाऽन्तोदात्ताविति सम्बन्धः कत्र्तव्यः। पाटयतेः "फलिपाटिनमिजनीनां गुक्? पाटिनाकिधश्च" [फलिपाटिनमिमनिजनां गुक्()पटिनाकिधतश्च--द।उ।] (द।उ।१।१०३) इत्युप्रत्ययः, पटिशब्दश्चादेशः--पटुः। "पडि गतौ" (धा।पा।२८१) अस्मान्निष्ठायां "पण्डितः"। "कुशलः" इति। कुशाँल्लातीति "लाऽ‌ऽदाने" (धा।पा।१०५८) इत्यस्मात्? "आतोऽनुपसर्गे कः" ३।२।३ इति कः, उपपदसमासः, "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इत्युत्तरपदप्रकृतिस्वरः। "चपलशब्दश्चित्स्वरेण" इति। अन्तोदत्त इत्यपेक्षते। कथमयमन्तोदात्तश्चित्स्वरेण? इत्याह--"कलस्तृपश्च" (द।उ।८।१०७) इत्यतः कलप्रत्ययान्तो व्युत्पाद्यते। तत्र "बृषादिभ्यश्चित्()" (द।उ।८।१०९) इत्यतश्चिद्ग्रहणमनुवत्र्तते। तेन चित्स्वरेणान्तोदात्तः। "निपुणशब्दः" इत्यादि। "अन्तोदात्तः" इति। प्रकृतेन सम्बन्धः। "पुणेः" इति "पुण कर्मणि शुने" (धा।पा।१३३३) इत्यस्मात्? "इगुपधाज्ञाप्रीकिरः कः ३।१।१३५ इति कप्रत्ययः॥