पूर्वम्: ६।२।२४
अनन्तरम्: ६।२।२६
 
सूत्रम्
श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये॥ ६।२।२५
काशिका-वृत्तिः
श्रज्यावमकन्पापवत्सु भावे कर्मधारये ६।२।२५

श्र ज्य अवम कनित्येतेषु पापशब्दवति च उत्तरपदे कर्मधार्ये समासे भाववाचि पूर्वपदं प्रकृतिस्वरं भवति। गमनश्रेष्ठम्। गमनश्रेयः। ज्य वचनज्येष्ठम्। वचनज्यायः। अवम गमनावमम्। वचनावमम्। कन् गमनकनिष्ठम्। गमनकनीयः। पापवत् गमनपापिष्ठम्। गमनपापीयः। ल्युडन्तान्येतानि पूर्वपदानि लित्स्वरेण आद्युदात्तानि। श्रज्यकनाम् आदेशानां ग्रहणम् इति सामर्थ्यात्तद्वदुत्तरपदं गृह्यते। आदिष्विति किम्? गमनशोभनम्। भावे इति किम्? गम्यते ऽनेन इति गमनं तत् श्रेयः, गमनश्रेयः। कर्मधारये इति किम्? गमनं श्रेयः गमनश्रेयः।
न्यासः
श्रज्यावमकन्पापवत्मु भावे कर्मधारये। , ६।२।२५

"गमनश्रेष्ठम्()" इति। "ल्युट्? च" ३।३।११५ इति ल्युट्(); विशेषणसमासः। अतिशयेन प्रशस्यः श्रेयः। दृष्ठन्नीयसुनोः "प्रशस्यस्य श्रः" ५।३।६० इति श्रादेशः। "वचनज्येष्ठम्()" इति। अत्रापि। तयोरेव प्रत्यययोः परतः प्रशस्यशब्दस्य ज्यादेशः। "गमनकनिष्ठम्(), गमनकनीयः" इति। इष्ठन्नीयसुनोः परतो युवशब्दस्याल्यशब्दस्य च "युवाल्पयोः कनन्यतरस्याम्()" ५।३।६४ इति कनादेशः। ननु च "श्रज्यकनाम्()" इति कथम्()? इतिकरणो हेतौ। यस्माच्छ्रज्यकनामिहादेशानां ग्रहणं ते चाजादौ प्रत्यये प्रशस्यादीनां विधीयन्त इति केवलानामसम्भवः। तस्मात्? सामथ्र्यात्? तद्वदुत्तरपदं गृह्रते॥