पूर्वम्: ६।२।२२
अनन्तरम्: ६।२।२४
 
सूत्रम्
सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये॥ ६।२।२३
काशिका-वृत्तिः
सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ६।२।२३

सविध सनीड समर्याद सवेश सदेश इत्येतेषु सामीप्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। मद्रसविधम्। गान्धारिसविधम्। काश्मीरसविधम्। मद्रसनीडम्। गान्धारिसनीडम्। काश्मीरसनीडम्। मद्रसमर्यादम्। गान्धरिसमर्यादम्। काश्मीरसमर्यादम्। मद्रसवेशम्। गान्धारिसवेशम्। काश्मीरसवेशम्। मद्रसदेशम्। गान्धरिसदेशम्। काश्मीरसदेशम्। पूर्वपदान्युक्तस्वराणि। सविधादीनां सह विधया इत्येवम् आदिका व्युत्पत्तिरेव केवलम्। समीपवाचिनस्त्वेते समुदायाः। मद्राणां सविधम् समीपम् इत्यर्थः। समीप्ये इति किम्? सह मर्यादया वर्तते समर्यादं क्षेत्रम्। देवदत्तस्य समर्यादम् देवदत्तसमर्यादम्। सविधादिसु इति किम्? देवदत्तसमया।
न्यासः
सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये। , ६।२।२३

सह विषया सविधः, "तेन सहेति तुल्ययोगे" २।२।२८ इति बहुव्रीहिः, "वोपसर्जनस्य" ६।३।८१ इति सहसय सभावः। एवं सनीडादिष्वपि बहुव्रीहिः सभावश्च वेदितव्यः। मद्रसविधमित्यादयः षष्ठीसमासाः। ननु च सह विषयेत्येवमादावर्थे सविधादयः शब्दा व्युत्पाद्यन्ते, तत् कथमेषां सामीप्ये वृत्तिः? इत्याह--"सह विषयेत्यवमादिका" इत्यादि। आदिशब्देन सह नीडेन सह मर्यादयेत्येवमादीनां ग्रहणम्()। एवकारोऽवधारणार्थोऽभिधेयव्यवच्छेदं करोति--व्युत्पत्तिनिमित्तमेव, नाभिधेयमिति। "समीपवाचिनस्त्वेते" इति। अत्रापि तुशब्दोऽवधारणार्थ एव। वसमीपवाचिन एव, न तु सह विधयेत्येवमादिवाक्यार्थवाचिन इति॥