पूर्वम्: ६।२।२१
अनन्तरम्: ६।२।२३
 
सूत्रम्
पूर्वे भूतपूर्वे॥ ६।२।२२
काशिका-वृत्तिः
पूर्वे भूतपूर्वे ६।२।२२

पूर्वशदे उत्तरपदे भूतपूर्ववाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। आढ्यो भूतपूर्वः आढ्यपूर्वः। पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते, तत्र विशेषणं विशेष्येण इति समासः, मयूरव्यंसकादिर्वा द्रष्टव्यः। दर्शनीयपूर्वः। सुकुमारपूर्वः। भूतपूर्वे इति किम्? परमपूर्वः। उत्तमपूर्वः। अत्र प्रमश्चासौ पूर्वश्च इति समासो, न तु परमो भूतपूर्वः इति। तथा हि सति उदाहरणम् एव भवति।
न्यासः
पूर्वो भूतपूर्वे। , ६।२।२२

"आढ()ओ भूतपूर्वः" इति। यः पूर्वमाढ() आसीत्? स एवमुच्यते। समासे गम्यमानार्थत्वाद्भूतशब्दो न प्रयज्यते, यथा--दध्योदन इत्यत्रोपसिक्तशब्दः। "परमपूर्वः" इति। अत्र "सन्महत्()" २।१।६० इत्यादिना समासः। "अत्र परमश्चासौ पूर्वश्चेति समासः" इति। इतिकरणोऽर्थनिर्देशार्थः। परमश्चसौ पूर्वश्चेति योऽयं वाक्यार्थः पूज्यमानतालक्षणः, तस्मिन्निह प्रत्युदाहरणे समास इत्यर्थः। "न तु परमो भूतः" इति। तुशब्दोऽवधारणे। परमो भूतपूर्व इति योऽयं वाक्यार्थः परमपूर्वकाललक्षणः, तस्मिन्नेवातर समास इत्यर्थः। किं कारणम्()? इत्याह--"तथा च" इत्यादि। चशब्दो हि हीत्यर्थे। अयं समासो न भवति। एवं सत्यदाहरणमेवेदं भवति, न प्रत्युदाहरणम्(), पूर्वशब्दस्य भूतपूर्ववाचित्वात्()। यस्तु प्रायेण पुस्तकेषु पाठोऽत्र "परमश्चासौ भूतपूर्वश्चेति विग्रहो न तु परमो भूतपूर्वः" इति; स प्रमादपाठो वेदितव्यः; वाक्यद्वयेऽपि भूतपूर्वयोर्गम्यमानत्वात्()॥