पूर्वम्: ६।२।२०
अनन्तरम्: ६।२।२२
 
सूत्रम्
आशङ्काबाधनेदीयस्सु संभावने॥ ६।२।२१
काशिका-वृत्तिः
आशङ्काऽबाधनेदीयस्सु सम्भावने ६।२।२१

प्रकृत्या पूर्वपदम्, तत्पुरुषे इति वर्तते। आशङ्क आबाध नेदियसित्येतेषु उत्तरपदेषु सम्भावनवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। अस्तित्वाध्यवसायः सम्भावनम्। गमनाशङ्कं वर्तते। गमनमाशङ्क्यते इति सम्भाव्यते। वचनाशङ्कम्। व्याहरणाशङ्कम्। आबाध गमनाबाधम्। वचनाबाधम्। व्यहरणाबाधम्। गमनं बाध्यते इति सम्भाव्यते। नेदीयस् गमननेदीयः। व्याहरणनेदीयः। गमनमतिनिकटतरम् इति सम्भाव्यते। सम्भावने इति किम्? परमनेदियः। पूर्वपदानि ल्युडन्तान्युक्तस्वराणि।
न्यासः
आशङ्काबाधनेदियःसु सम्भावने। , ६।२।२१

"शकि शङ्कायाम्()" (धा।पा।८६) इत्येतस्मात्? "गुरोश्च हलः" ३।३।१०३ इत्यकारप्रत्ययः। केचित्तु घञन्तसय शङ्कशब्दस्य ग्रहणमिति वर्णयन्ति। "बाधु लोडने" (धा।पा।५) इत्यस्मादाङ्पूर्वात्? धञि "आबाधः"। अत्यर्थमन्तिकं "नेदीयः"। अन्तिकशब्दस्य "अन्तिकबाढयोर्नेदसाधौ" ५।३।६३ इतीयसुनि परतोनेदादेशः। "अस्तित्वाध्यवसायः" इति। असतित्वनिश्चय इत्यर्थः। "गमनाशङ्कम्()" इति। षष्ठीसमासः। क्रियाविशेषणत्वान्नपुंसकलिङ्गम्(), लोकाश्रयत्वाद्वा लिङ्गस्य॥