पूर्वम्: ६।२।१९३
अनन्तरम्: ६।२।१९५
 
सूत्रम्
सोरवक्षेपणे॥ ६।२।१९४
काशिका-वृत्तिः
सोरवक्षेपणे ६।२।१९५

सुशब्दात् परमुत्तरपदं तत्पुरुषे समासे ऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने। अवक्षेपणं निन्दा। इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः। सुशब्दो ऽत्र पूजायाम् एव। वाक्यार्थस् तु अवक्षेपणमसूयया, तथा अभिधानात्। सोः इति किम्? कुब्राह्मणः। अवक्षेपणे इति किम्? शोभनेषु तृणेषु सुतृणेषु।
न्यासः
सोरवक्षेपणे। , ६।२।१९४

"सुस्थण्डिलः" इति। स्थानं स्थिरमस्मिन्निति स्थण्डिलम्()। पृषोदरादित्वादाद्युदात्तः। "सुस्फिगाभ्याम्()" इति। स्फिगशब्दः आद्युदात्तः। "सुप्रत्यवसितः" इति। प्रत्यवसितशब्दस्थाथादि६।२।१४३स्वरेणान्तोदात्तः। ननु च सुशब्देनापि सह समासे कृते थाथादिस्वरेणैवान्तोदात्तत्वं भविष्यति, तत्? किमर्थमुदाह्मतम्()? एवं मन्यते--सत्यन्यार्थेऽस्यारम्भे परत्वादनेनैवात्राप्यन्तोदात्तत्वं युक्तमिति। यदि सुशब्दोऽत्र पूजायामेव वर्तते, अवक्षेपणं तर्हि कस्यार्थः? इत्याह--"वाक्यार्थस्त्ववक्षेपणम्()" इति। अत्रैव कारणमाह--"असूण्या तथाभिधानात्()" इति। इह खल्विदानीं "अस्स्व सुस्थण्डिलः" इत्येवम्प्रकारं वाक्यं यस्मादसूयया प्रयुज्यते, तस्माद्वाक्यार्थस्यैवावक्षेपणम्()। "सुतृणेषु" इति। अत्र गुणोद्भावनेच्छयाभिधानम्(), नासूयया। तेनावक्षेपणं नास्ति, पूजैव तु विद्यते॥