पूर्वम्: ६।२।१९१
अनन्तरम्: ६।२।१९३
 
सूत्रम्
प्रतेरंश्वादयस्तत्पुरुषे॥ ६।२।१९२
काशिका-वृत्तिः
प्रतेरंश्वादयस् तत्पुरुषे ६।२।१९३

प्रतेरंश्वादयस् तत्पुरुषे समासे ऽन्तोदात्ताः भवन्ति। प्रतिगतः अंशुः प्रत्यंशुः। प्रतिजनः। प्रतिराजा। राजशब्दः समासान्तस्य अनित्यत्वाद् यदा टज् न अस्ति तदा प्रयोजयति। तस्मिन् हि सति चित्त्वादेव अन्तोदात्तत्वं सिद्धम्। तत्पुरुषे इति किम्? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयम् उष्ट्रः। अंशु। जन। राजन्। उष्ट्र। खेटक। अजिर। आर्द्रा। श्रवण। कृत्तिका। अर्ध। पुर।
न्यासः
प्रतेरं�आआदयस्तत्पुरुषे। , ६।२।१९२

पूर्वपदप्रकृतिस्वरापवादो योगः। "प्रत्यंशुः" इति। प्रादिसमासः। "कुभ्र्रश्च" इत्यधिकृत्य "मुगय्वादयश्च" (द।उ।१।१२१) इत्यंशुशब्दो निपातितः। तेनान्तोदात्तः। जनेर्घञ्()। तेन जन आद्युदात्तः। राजञ्शब्दोऽपि कनिन्प्रत्ययान्तत्वात्()। "राजशब्दः" इत्यादि। "राजाहःसखिभ्यष्टच्()" (५।४।९१) इति यदाऽनित्यत्वाट्टज्? नास्ति, तदा राजशब्द इह पाठे प्रयोजयति। अथ तस्मिन्? समासान्ते सति कस्मान्न प्रयोजयति? इत्याह--"तस्मिन्? हि सति" इत्यादि। अनित्यत्वं तु समासान्तविधेः पूर्वमेव ज्ञापितम्()। राजशब्दस्य चेह पाठः समासान्तविधेरनित्यत्वं ज्ञापयति। "उष दाहे" (धा।पा।६९६)--इत्यस्मात्? ष्ट्रन्()। तेन उष्ट्रशबद आद्युदात्तः "शिट सन्तापे" ["खिट त्रासे"--धा।पा।] (धा।पा।३०२)--अस्माण्वुल्()। तेन खेटकशब्दोऽप्याद्युदात्तः। "अजिरशिशिर" (द।उ।८।२७) इत्यादिना किरच्प्रत्ययान्तोऽजिरशब्दो निपातितः। तेनान्तोदात्तः। "द्रो कुत्सायां गतौ" (धा।पा।१०५४)--अस्मादाङ्पूर्वात्? "आतश्चोपसर्गे" (३।३।१०६) इत्यङ्? निपातनात्? पूर्वपदस्य रेफान्तता। ततश्चाव्ययरूपहानादसत्यस्मात्? पूर्वपदप्रकृतिस्वरत्वे आर्देत्यन्तोदात्ता भवति। "श्रु श्रवणे" (धा।पा।९४२) इत्यस्माल्ल्युट्()। तेन श्रवणशब्दो लित्स्वरेणाद्युदात्तः। "वृतेस्तिकन्()" (द।उ।३।२८) इति प्रकृते "कृतिभिदिलतिभ्यः कित्()" (द।उ।३।२९) इति तिकन्(), टाप्()। तेन कृत्तिकाशब्द आद्युदात्तः। "ऋध"--इत्येतस्मादच्(), घञ्? वा। तेनार्धशब्दोऽन्तोदात्तः, आद्युदात्तो वा। "पुर अग्रगमने" (धा।पा।१३४६)--अस्मादिगुपधलक्षणः ३।१।१३५ कः। तेन पुरशब्दोऽन्तोदात्तः। "प्रतिगता अंशवोऽस्य" इत्यादि। अत्र बहुव्रीहौ पूर्वपदप्रकृतिस्वरो भवति॥