पूर्वम्: ६।२।१९२
अनन्तरम्: ६।२।१९४
 
सूत्रम्
उपाद् द्व्यजजिनमगौरादयः॥ ६।२।१९३
काशिका-वृत्तिः
उपाद् द्व्यजजिनम् अगौरादयः ६।२।१९४

उपादुत्तरं द्व्यचजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उपदेवः। उपसोमः। उपेन्द्रः। उपहोडः। अजिन उपाजिनम्। अगौरादयः इति किम्। उपगौरः। उपतैषः। तत्पुरुषे इत्येव, उपगतः सोमो ऽस्य उपसोमः। गौर। तैष। नैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्य। पाद। गौरादिः।
न्यासः
उपाद्द्व्यजजिनमगौरादयः। , ६।२।१९३

"उपदेवः" इति। प्रादिसमासोऽयम्()। देवशब्दः पचाद्यजन्तत्वादन्तोदात्तः। "उपसोमः" इति। अतिस्तुसुहुसृ" ६।४।१४९ इत्यादिना मन्()। तेन सोमशब्द आद्युदात्तः। "हुडृ हुडृ गतौ" (धा।प।३५२,३५३) अस्मात्? पचाद्यच्()। तेन होडशब्दोऽन्तोदात्तः। अजिनमन्तोदात्तमित्युक्तम्(), अद्व्यजर्थं चास्य ग्रहणम्()। गौरशब्दः प्रज्ञद्यणन्तत्वादाद्युदात्तः। तिष्येण युक्तः कालस्तैषः, "प्राग्दीव्यतोऽण्()" ४।१।८३। "सूर्यतिष्य" ६।४।१४९ इति यलोपः। नैषतैटावणन्तौ। तेनान्तोदात्तो। "रट परिभाषणे" (धा।पा।२९७)--अस्मादच्()। रलयोरेकत्वाद्रेफस्य लकारः। लटः। "लुट विलोडने" (धा।पा।३१४)--अस्मात्? पचाद्यच्()। तेन लटलोटावप्यन्तोदात्तौ। "शवयह्वजिह्वाग्रीवाप्वामीवाः" (द।उ।८।१२८) इति जिह्वान्तोदात्ता निपत्यते। "इण्सिञ्जि" (द।उ।५।३५) [इण्सिञ्()--द।उ।पं।उ। (३।२)] इत्यधिकृत्य "कृषेर्वर्णे (द।उ।५।३७) इति कृषेर्नक्(), टाप्? सवर्णदीर्घत्वम्(), "एकादेश उदात्तेनोदात्तः ८।२।५। तेन कृष्णाशब्दोऽन्तोदात्तः। "अध्न्यादयश्च" (द।उ।८।१४) इति कन्याशब्दोऽन्तस्वरितो निपात्यते। "गुड घनत्वे" ["गुड रक्षायाम्()"--धा।पा।] (धा।पा।१३७०)--अस्मादिगपधलक्षणः३।१।१३५ कः। तेन गुडोऽन्तोदात्तः। कल्पवाहशब्दौ वृषादित्वादन्तोदात्तौ॥