पूर्वम्: ६।२।१९०
अनन्तरम्: ६।२।१९२
 
सूत्रम्
नेरनिधाने॥ ६।२।१९१
काशिका-वृत्तिः
नेरनिधाने ६।२।१९२

नेः परमुत्तरपदम् अन्तोदात्तं भवति अनिधाने। निधानम् अप्रकाशता। अनिमूलम् न्यक्षम्। नितृणम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। अनिधाने इति किम्? निवाग्वृषलः। निदण्डः। निहितवाक्, निहितदण्डः इत्यर्थः। निशब्दो ऽत्र निधानार्थं ब्रवीति। प्रदयो हि वृत्तिविषये ससाधनां क्रियामाहुः।
न्यासः
नेरनिधाने। , ६।२।१९१

"निधानमप्रकाशता" इति। न निधानमनिधानम्()। "निर्मूलम्(), न्यक्षम्()" इति। "मूल प्रतिष्ठायाम्()" (धा।पा।५२९)-अस्मात्? पचाद्यच्()। तस्मान्मूलशब्दोऽन्तोदात्तः। "वृ()तृ()वदिहनि कमिकषिभ्यः सः" (द।उ।९।२१) [कमिकषियुमुचिभ्यः--द।उ।] इत्यधिकृत्य "अशेर्देवने" (द।उ।९।२४) इति सप्रत्ययान्तत्वादक्षशब्दोऽप्यन्तोदात्तः। "नितृ()णम्()" इति। "नब्विषयस्य" (फि।सू।२।२६) इति तृ()णमाद्युदात्तम्()। "बहुव्रीहिरयम्()" इत्यादि। यदा बहुव्रीहिस्तदा--निगतानि मूला न्यस्येति विग्रहः। यदा प्रादिसमासस्तदा निगतं मूलमिति। अव्ययीभावः कस्मादयं न भवति? इत्याह--"अव्ययीभावे तु" इत्यादि। बहुव्रीहौ तु समासान्तोदात्तत्वापवादः "बहुव्रीहौ प्रकृत्या" ६।२।१ इत्यादिना पूर्वपदस्य प्रकृतिस्वर उक्तः। तत्पुरुषेऽपि "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना; तेन तयोर्विनाऽनेन वचनेनान्तोदात्तत्वं न सिध्यति। अव्ययीभावे तु समासान्तोदात्तत्वेनैव सिदधम्(), न हि तत्र तस्यापवादः उक्तः। "निवाग्वृषलः; निदण्डः" इति। अत्र पूर्वपदस्य प्रकृतिस्वर एव भवति। वाक्शब्दः "क्विब्वचिप्रच्छि" (द।उ।१०।२) इत्यादिना क्विबन्तो व्युत्पादित आद्युदात्तः। "दमु उपशमे" (धा।पा।१२०३)--अस्मात्? "ञमन्ताङ्ङः" (द।उ।५।७) इति। तेन दण्डशब्दोऽप्यन्तोदात्तः। "निशब्दोऽत्रि निधानार्थं ब्रावीति" इति। अप्रकाशतां ब्रातीतीत्यर्थः। कथं पुनरत्र निशब्दो निधानार्थं ब्रावीति? इत्याह--"प्रादयो हि" इत्यादि। वृत्तिशब्देनेह समासवृत्त्यादिर्गुह्रते। प्रादयो हि स्वभावेनैव वृत्तिविषये ससाधनां क्रियामाहुः। तस्मादिह समासवृत्तौ विषयेयासावप्रकाशनात्मिका क्रिया निधानशब्दवाच्या वाक्साधना, दण्डसाधना च तां निशब्दो ब्रावीति॥