पूर्वम्: ६।२।१८
अनन्तरम्: ६।२।२०
 
सूत्रम्
न भूवाक्चिद्दिधिषु॥ ६।२।१९
काशिका-वृत्तिः
न भूवाक्चिद्दिधिषु ६।२।१९

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति। पूर्वेण प्राप्तः स्वरः प्रतिषिध्यते। भूपतिः। वाक्पतिः। चित्पतिः। दिधिषूपतिः। षष्ठीसमासा एते समासस्वरेण अन्तोदात्ता भवन्ति।
न्यासः
नभूवाक्चिद्दिधिषु। , ६।२।१९

"भुवः संज्ञान्तरयोः" ३।२।१७९ इति क्विपा भूशब्दो धातुस्वरेणान्तोदात्तः। एवं वाक्()शब्दः, वचः "क्विब्वचिप्रच्छि" (द।उ।१०।२) इत्यादिना क्विप्()। "चित्()" इति। "चितौ संज्ञाने" (धा।पा।३९) इत्यस्मात्? "अन्येभ्योऽपि दृश्यते" ३।२।१८७ इति क्विप्()। "नृतिशृध्योः कूः" (द।उ।१।१७४) इत्यधिकृत्य "अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द।उ।१।१७६) दिधिषूशब्दः कूप्रत्ययान्तोऽन्तोदात्त इति॥