पूर्वम्: ६।२।१७
अनन्तरम्: ६।२।१९
 
सूत्रम्
पत्यावैश्वर्ये॥ ६।२।१८
काशिका-वृत्तिः
पत्यावैश्वर्ये ६।२।१८

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति। गृहपतिः। सेनापतिः। नरपतिः। धान्यपतिः। गेहे कः ३।१।१४४ इति प्रकृतिस्वरेण अन्तोदात्तो गृहशब्दः। सह इनेन वर्तते इति बहुव्रीहौ प्रकृत्या पूर्वपदम् ६।२।१ इति सेनाशब्द आद्युदात्तः। नृ̄ नये एतस्मादृदोरप् ३।३।५७ इति अप्प्रत्ययान्त आद्युदात्तो नरशब्दः। धान्यम् अन्तस्वरितम्। ऐश्वर्यम् इति किम्? ब्राह्मणो वृषलीपतिः। वृषल्या भर्ता इत्यर्थः।
न्यासः
पत्यावै�आर्ये। , ६।२।१८

"धान्यमन्तःस्वरितम्()" इति। ण्यदन्तत्वात्? तित्सवरेण। "वृषल्या भत्र्तेत्यर्थः" इति। वृषल्याः कामयितेति यावत्()॥