पूर्वम्: ६।२।१७९
अनन्तरम्: ६।२।१८१
 
सूत्रम्
न निविभ्याम्॥ ६।२।१८०
काशिका-वृत्तिः
न निविभ्याम् ६।२।१८१

नि वि इत्येताभ्याम् उत्तरो ऽन्तःशब्दो न अनतोदात्तो भवति। न्यन्तः। व्यन्तः। पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः। तत्र उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४ इति स्वरितो भवति।
न्यासः
न निविभ्याम्?। , ६।२।१८०

पूर्वेण निविभ्यामप्युततरसयान्तोदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। "पूर्वपदप्रकृतिस्वरतवे कृते" इति। यदा बहुव्रीहिस्तदा "बहुव्रीहौ प्रकृत्या पूर्वपदम्()" ६।२।१ इति प्रकृतिस्वरत्वम्()। यदा तु तत्पुरुषस्तदा "तत्पुरुषे तुल्यार्थ" ६।२।२ इत्यादिना॥