पूर्वम्: ६।२।१७७
अनन्तरम्: ६।२।१७९
 
सूत्रम्
अन्तः॥ ६।२।१७८
काशिका-वृत्तिः
अन्तः ६।२।१७९

अन्तःशब्दादुत्तरं वनम् अन्तोदात्तं भवति। अन्तर्वणो देशः। अनुपसर्गार्थ आरम्भः।
न्यासः
अन्तः। , ६।२।१७८

"अन्तः" इति स्वरादिष्वन्तोदात्तो निपात्यते। "अन्तर्वणो देशः" इति। अन्तर्वनं यस्मिन्निति बहुव्रीहिः, "वनेऽन्तः" इति शौण्डादिपाठात्? २।१।३९ सप्तमीसमासो वा। "प्रनिरन्तरः" ८।४।५ इत्यादनना णत्वम्()। "अनुपसर्गार्थ आरम्भः" इति। उपसर्गात्? पूर्वेणैव सिद्धत्वात्()॥