पूर्वम्: ६।२।१६
अनन्तरम्: ६।२।१८
 
सूत्रम्
स्वं स्वामिनि॥ ६।२।१७
काशिका-वृत्तिः
स्वं स्वामिनि ६।२।१७

स्वामिशब्दे उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति। गोस्वामी। अश्वस्वामी। धनस्वामी। अश्वधनगवां कथित एव स्वरः। स्वम् इति किम्? परमस्वामी।
न्यासः
स्वं स्वामिनि। , ६।२।१७