पूर्वम्: ६।२।१५
अनन्तरम्: ६।२।१७
 
सूत्रम्
प्रीतौ च॥ ६।२।१६
काशिका-वृत्तिः
प्रीतौ च ६।२।१६

प्रीतौ गमयमानायां सुख प्रिय इत्येतयोः उत्तपदयोः तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। ब्राह्मणसुखं पायसम्। छात्रप्रियो ऽनध्यायः। कन्यप्रियो मृदङ्गः। सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम्। ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेण अन्तोदातौ। कन्याशब्दः स्वरितान्तः। प्रीतौ इति किम्? राजसुखम्। राजप्रियम्।
न्यासः
प्रीतौ च। , ६।२।१६

अथ प्रीतौ चेतीदं ग्रहणं किमर्थम्(), यावता सुखप्रिययोः प्रीत्यव्यभिचारात्()। एवं प्रीतौ गम्यमानायां भविष्यति? इत्यत आह--"सुखप्रिययोः प्रीति" [प्रीत्येत्यादि--मुद्रितः पाठः] इत्यादि। प्रीतिग्रहणमन्तरेणापि सिद्धे सुखप्रिययोः प्रीत्यव्यभिचाराद्यदिह प्रीतिग्रहणं क्रियते, तदतिशयिता या प्रीतिस्तस्या यथा स्यादित्येवमर्थम्()। "ब्राआहृणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ" इति। ब्राआहृणशब्दोऽणन्तः। छात्रशब्दः "छत्त्रादिभ्यो णः" ४।४।६२ इति णप्रत्ययान्तः। "कन्याशब्दः स्वरितान्तः" इति। अध्न्यादिषु (द।उ।८।१४) तथा भूतस्यैव पाठात्()। "राजसुखं राजप्रीयम्()" इति। अत्र यद्यपि सुखप्रिययोः प्रीत्यव्यभिचारित्वात्? प्रीतिर्गम्यते, तथाप्यतिशयेन या प्रीतिः सा न गम्यत इति भवति प्रत्युदाहरणम्()॥