पूर्वम्: ६।२।१५८
अनन्तरम्: ६।२।१६०
 
सूत्रम्
कृत्योकेष्णुच्चार्वादयश्च॥ ६।२।१५९
काशिका-वृत्तिः
कृत्यौकैष्णुच्चार्वादयश् च ६।२।१६०

कृत्य उक इष्णुचित्येवम् अन्ताश्चार्वादयश्च नञः उत्तरे ऽन्तोदात्ताः भवन्ति। कृत्य अकर्तव्यम्। अकरणीयम्। उक अनागामुकम्। अनपलाषुकम्। इष्णुच् अनलङ्करिष्णुः। अनिराकरिष्णुः। इष्णुज् ग्रहणे कर्तरि भुवः खिष्णुच् ३।२।५७ इत्यस्य द्व्यनुबन्धकस्य अपि ग्रहणम् इकारादेर् विधानसामर्थ्याद् भवति। अनाढ्यम्भविष्णुः। असुभगम्भविष्णुः। चार्वादयः अचारुः। असाधुः। अयौधिकः। अवदान्यः। चारु। साधु। यौधिक। अनङ्गमेजय। अत्र द्वितीये नञ्समासे ऽन्तोदात्तत्वम्। अननङ्गमेजयः। वदान्य। अकस्मात्। अत्र अपि द्वितीये नञ्समासे ऽन्तोदात्तत्वम्। अनकस्मात्। अवर्तमानवर्धमानत्वरमाणध्रियमाण। रोचमानशोभमानाः संज्ञायाम्। एते वर्तमानादयः संज्ञायां द्रष्दव्याः। विकारसदृशे व्यस्तसमस्ते। अविकारः। असदृशः। अविकारसदृशः। गृहपति। गृहपतिक। राजाह्नोश् छन्दसि। अराजा। अनहः। भाषायां नञ्स्वर एव भवति।
न्यासः
कृत्योकेष्णुच्चार्वादयश्च। , ६।२।१५९

कृत्य, उक, इष्णुजिति प्रत्ययग्रहणम्()। तत्र प्रत्ययग्रहणपरिभाषया (पु।प।वृ४४) तदन्तोपस्थापनं भवति। चार्वादीनि प्रातिपदिकान्येव। "अकत्र्तव्यम्()" इति। यदा तव्यदन्तस्तदा कर्तव्यशब्दोऽन्तस्वरितः। यदा तव्यान्तस्तदा मध्योदात्तः। "अकरणीयम्()" इति। अनीयर्()प्रत्ययान्तत्वात्? "उपोत्तमं रिति" ६।१।२११ इति रित्स्वरेण मध्योदात्तः करणीयशब्दः। "अनागामृकम्(), अनपलाषुकम्()" इति। "लषपतपद" ३।२।१५४ इत्यादिनोकञ्()। आगामुकापलाषुकशब्दौ कृत्स्वरेण मध्योदात्तौ। "अनलङ्करिष्णुः" इति। "अलंकृञ्()" ३।२।१३६ इत्यादिनेष्णुच्()। अलङ्करिष्णुशब्दश्चित्स्वरेणान्तोदात्तः। एवं "निराकरिष्णु" शब्दोऽपि। एकानुबन्धकग्रहणपरिभाषया(व्या।प।४२)इष्णुज्ग्रहणे द्ब्यनुबन्धकस्य खिष्णुचो ग्रहणेन न भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"इष्णुज्ग्रहणे कर्तरि भुवः" ३।२।५७ खिष्णुजित्यस्य द्व्यनुबन्धकस्यापि ग्रहणं भवति" इति वक्ष्यमाणेन सम्बन्धः। अत्रैव कारणमाह--"इकारादेर्विधानसामथ्र्यात्()" इति। खिष्णुच इकारादेर्विधानस्यैतदेव प्रयोजनम्()--इह सूत्रे सामान्येन ग्रहणं यथा स्यात्(), अन्यथा तदपार्थकं स्यात्(), उदात्तत्वाद्भवत#ए#ः ततः परस्य खिष्णुच इटैवेकारादित्वत्()। "अचारुः" इत्यादि। "दृसनिजनिचरिभ्यो ञुण्()" (द।उ।१।८८) [दृसनिजनिचरिचटिरहिभ्यो ञुण्()--द।उ; दृ।उ; दृ()सनिजनिचरिचटिभ्यो ञुण्()--पंउ।] तेनाद्युदात्तश्चारुशब्दः। साद्युशब्दोऽन्तोदात्त; "कृवापा" (द।उ।१।८६) इत्यादिनोण्प्रत्ययान्तत्वात्()। युधा चरति यौधिकः, "प्राग्वहतेष्ठक्()" ४।४।१ "कितः" ६।१।१५९ इत्यन्तोदात्तः। "अनङ्गमेजयः" इति। अव्ययस्वरेणाद्युदात्तः। अत्र द्वितोये नञ्समासे समासान्तोदात्तत्वमिति नञ्समासः स्यात्()। "अत्रापि" इत्यादि। कस्माच्छब्दस्य नञ उत्तरस्याद्युदात्तत्वविधानात्()। अत्रापि द्वितीयेन नञ्समासेनान्तोदात्तत्वमिति। वर्तमान, वर्धमान--इत्येदमादयः शानजन्तत्वादन्तोदात्ताः। विकारसदृशशब्दः समासस्वरेणान्तोदात्तः। गृहपतिकशब्दः "संज्ञायां कन्()" ५।३।८७ इति कन्नन्तत्वादाद्युदात्तः। "वदेरान्यः" (द।उ।८।९), वदान्यशब्दः प्रत्ययस्वरेण मध्योदात्तः॥