पूर्वम्: ६।२।१५६
अनन्तरम्: ६।२।१५८
 
सूत्रम्
आक्रोशे च॥ ६।२।१५७
काशिका-वृत्तिः
आक्रोशे च ६।२।१५८

आक्रोशे च गम्यमाने नञः उत्तरमच्कान्तम् अन्तोदात्तं भवति। अपचो ऽयं जाल्नमः अपठो ऽयं जाल्मः। पक्तुं पठितुं शक्तो ऽप्येवम् आक्रुश्यते। अविक्षिपः। अविलिखः।
न्यासः
आक्रोशे च। , ६।२।१५७

अत्राक्रोशे दोषवचनमाक्रोशः। अगम्यमानायामप्यशक्तौ यथा स्यादिति वचनम्()॥